(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.7. अध्यायः 007
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः ॥ 1 ॥ तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-7-0x(3002)(28407)
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत्।
इमानि पुरुषव्याघ्र आयुधानि परंतप।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ 1 ॥ 4-7-1(28408)
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ 2 ॥ 4-7-2(28409)
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम्।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ 3 ॥ 4-7-3(28410)
यदीद.. धनुरादाय चरेम सजने पुरे।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ 4 ॥ 4-7-4(28411)
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ 5 ॥ 4-7-5(28412)
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ 6 ॥ 4-7-6(28413)
वैशम्पायन उवाच। 4-7-7x(3003)
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ 7 ॥ 4-7-7(28414)
इयं वने मनुष्येन्द्र महती दृश्यते शमी।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ 8 ॥ 4-7-8(28415)
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ॥ 9 ॥ 4-7-9(28416)
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ 10 ॥ 4-7-10(28417)
समीपे च श्मशानस्य गृहं नास्य विशेषतः।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ 11 ॥ 4-7-11(28418)
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ 12 ॥ 4-7-12(28419)
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्।
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ 13 ॥ 4-7-13(28420)
एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ 14 ॥ 4-7-14(28421)
वैशम्पायन उवाच । 4-7-15x(3004)
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ॥ 15 ॥ 4-7-15(28422)
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ 16 ॥ 4-7-16(28423)
ततो युधिष्ठिरो राजा सहदेवमुवाच ह।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 17 ॥ 4-7-17(28424)
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ 18 ॥ 4-7-18(28425)
वैशम्पायन उवाच। 4-7-19x(3005)
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् ।
निवातकवचांश्चापि पौलोमांश्च परंतपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ॥ 19 ॥ 4-7-19(28426)
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः।
तदुदग्रं महाघोरं सपत्नगणमूदनम्।
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ॥ 20 ॥ 4-7-20(28427)
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ 21 ॥ 4-7-21(28428)
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम्।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ 22 ॥ 4-7-22(28429)
वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ 23 ॥ 4-7-23(28430)
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ 24 ॥ 4-7-24(28431)
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ 25 ॥ 4-7-25(28432)
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ 26 ॥ 4-7-26(28433)
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः।
त्रिगर्तान्येन संग्रामे जित्वा त्रैगर्तमानयत् ॥ 27 ॥ 4-7-27(28434)
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ 28 ॥ 4-7-28(28435)
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः।
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ॥ 29 ॥ 4-7-29(28436)
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ 30 ॥ 4-7-30(28437)
तवानुरूपं सुकृतं चापमेतदलङ्कृतम्।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 31 ॥ 4-7-31(28438)
वैशम्पायन उवाच। 4-7-32x(3006)
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ 32 ॥ 4-7-32(28439)
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ 33 ॥ 4-7-33(28440)
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ 34 ॥ 4-7-34(28441)
येनैव शत्रून्समरे अधाक्षीररिमर्दन।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 35 ॥ 4-7-35(28442)
वैशम्पायन उवाच। 4-7-36x(3007)
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ 36 ॥ 4-7-36(28443)
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् ।
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ 37 ॥ 4-7-37(28444)
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 38 ॥ 4-7-38(28445)
इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ॥ 39 ॥ 4-7-39(28446)
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ॥ 40 ॥ 4-7-40(28447)
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः।
तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ 41 ॥ 4-7-41(28448)
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ॥ 42 ॥ 4-7-42(28449)
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम्।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ 43 ॥ 4-7-43(28450)
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ 44 ॥ 4-7-44(28451)
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ 45 ॥ 4-7-45(28452)
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ॥ 46 ॥ 4-7-46(28453)
यानि चात्र विशालानि रूढमूलानि मन्यसे।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ॥ 47 ॥ 4-7-47(28454)
वैशम्पायन उवाच। 4-7-48x(3008)
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ 48 ॥ 4-7-48(28455)
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ 49 ॥ 4-7-49(28456)
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च ।
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ॥ 50 ॥ 4-7-50(28457)
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ॥ 51 ॥ 4-7-51(28458)
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ 52 ॥ 4-7-52(28459)
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ 53 ॥ 4-7-53(28460)
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः।
आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति।
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ॥ 54 ॥ 4-7-54(28461)
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ 55 ॥ 4-7-55(28462)
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः।
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ 56 ॥ 4-7-56(28463)
वैशम्पायन उवाच। 4-7-57(28464)
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ 57 ॥ 4-7-57(28465)
आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ 58 ॥ 4-7-58(28466)
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके ।
बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ 59 ॥ 4-7-59(28467)
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ 60 ॥ 4-7-60(28468)
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ 61 ॥ 4-7-61(28469)
वने विचरमाणानां लुब्धानां वनचारिणाम्।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ 62 ॥ 4-7-62(28470)
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ 63 ॥ 4-7-63(28471)
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ 64 ॥ 4-7-64(28472)
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ 65 ॥ 4-7-65(28473)
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः ।
जयो जयेशो विजयो जयत्सेनो जयद्बलः। 4-7-66(28474)
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ॥ 66 ॥
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्। 4-7-67(28475)
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ 67 ॥ ॥ 4-7-68(28476)

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः ॥ 7 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.